|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.50. अध्यायः 050
Mahabharata - Drona Parva - Chapter Topics
युद्धभूमिवर्णनम्॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्जय उवाच। 7-50-0x(4377)(46748)
वयं तु प्रवरं हत्वा तेषां तैः शरपीडिताः।
निवेशायाभ्युपायामः सायाह्ने रुधिरोक्षिताः॥ 7-50-1(46749)
निरीक्षमाणास्तु वयं परे चायोधनं शनैः।
अपयाता महाराज ग्लानिं प्राप्ता विचेतसः॥ 7-50-2(46750)
ततो निशाया दिवसस्य चाशिवः
शिवारुतैः सन्धिरवर्तताद्भुतः।
कुशेशयापीडनिभे दिवाकरे
विलम्बमानेऽस्तमुपेत्य पर्वतम्॥ 7-50-3(46751)
वरासिशक्त्यृष्टिवरूथचर्मणां
विभूषणानां च समाक्षिपन्प्रभाः।
दिवं च भूमिं च समानयन्निव
प्रियां तनुं भानुरुपैति पावकम्॥ 7-50-4(46752)
महाभ्रकूटाचलशृङ्गसन्निभै--
र्गजैरनेकैरिव वज्रपातितैः।
सवैजयन्त्यङ्कुशवर्मयन्तृभि--
र्निपातितैर्नष्टगतिश्चिता क्षितिः॥ 7-50-5(46753)
हतेश्वरैश्चूर्णितचक्रकूबरै--
र्हताश्वसूतैर्विपताककेतुभिः।
महारथैर्भूः शुशुभे विचूर्णितैः
पुरैरिवामित्रहतैर्नराधिप॥ 7-50-6(46754)
रथाश्वबृन्दैः सहसादिभिर्हतैः
प्रविद्धभाण्डाभरणैः पृथग्विधैः।
निरस्तजिह्वादशनान्त्रलोचनै--
र्धरा बभौ घोरविरूपदर्शना॥ 7-50-7(46755)
प्रविद्धवर्माभणाम्बरायुधा
विपन्नहस्त्यश्वरथानुगा नराः।
महार्हशय्यास्तरणोचितास्तदा
क्षितावनाथा इव शेरते हताः॥ 7-50-8(46756)
अतीव हृष्टाः श्वशृगालवायसा
बकाः सुपर्णाश्च वृकास्तरक्षवः।
वयांस्यसृक्पान्यथ रक्षसां गणाः
पिशाचसङ्घाश्च सुदारुणा रणे॥ 7-50-9(46757)
त्वचो विनिर्भिद्य पिबन्वसामसृक्
तथैव मज्जाः पिशितानि चाश्नुवन्।
वपां विलुम्पन्ति हसन्ति गान्ति च
प्रकर्षमाणाः कुणपान्यनेकशः॥ 7-50-10(46758)
शरीरसङ्घाटवहा ह्यसृग्जला
रथोडुपा कुञ्जरशैलसङ्कटा।
मनुष्यशीर्षोपलमांसकर्दमा
प्रविद्धनानाविधशस्त्रमालिनी॥ 7-50-11(46759)
भयावहा वैतरणीव दुस्तरा
प्रवर्तिता योधवरैस्तदा नदी।
उवाह मध्येन रणाजिरे भृशं
भयावहा दीनमृतप्रवाहिनी॥ 7-50-12(46760)
पिबन्ति च स्नान्ति च यत्र दुर्दृशाः
पिशाचसङ्घास्तु नदन्ति भैरवाः।
सुनन्दिताः प्रणभृतां क्षयंकराः
समानभक्षाः श्वसृगालपक्षिणः॥ 7-50-13(46761)
तथा तदायोधनमुग्रदर्शनं
निशामुखे पितृपतिराष्ट्रवर्धनम्।
निरीक्षमाणः शनकैर्जहुर्नराः
समुत्थिता नृत्तकबन्धसङ्कुलम्॥ 7-50-14(46762)
अपेतविध्वस्तमहार्हभूषणं
निपातितं शक्रसमं महाबलम्।
रणेऽभिमन्युं ददृशुस्तदा जना
व्यपोढहव्यं सदसीव पावकम्॥ ॥ 7-50-15(46763)
इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि त्रयोदशदिवसयुद्धावहारे पञ्चाशत्तमोऽध्यायः॥ 50 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|